भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 2002 verses
यत्रानयनमर्थानां मुखाद्यानां महौजसाम्।

फलोपबृंहितानां स्याज्ज्ञेयं निर्वहणं तु तत्॥ २६॥

(नाशा. १९.४०)

एते च महावाक्येषु रत्‍नावल्यादिषूपक्षेपपरिकराद्यङ्गचतुष्षष्टिप्रविभागप्रस्तावादन्यत्र विस्तरादुदाहरिष्यन्त इति नेह प्रतन्यते। तथा चोपक्षेपादयः प्रबन्धेष्वाधिकारिकाः आनुषङ्गिकाः प्रासङ्गिका वा प्रयोक्तव्याः, यथा सन्दर्भस्य शोभायै भवन्ति। तेनानुसन्ध्यादीनामपि समावेशो व्याख्यातः।

तत्र किमाधिकारिकं किमानुषङ्गिकं किं प्रासङ्गिकमिति चेत्—

यत् कार्यं हि फलप्राप्‍तौ समर्थं परिकल्प्यते।

तदाधिकारिकं ज्ञेयमन्यत् स्यादानुषङ्गिकम्॥ २७॥

(नाशा. १९.३)

कारणात् फलयोगस्य वृत्तं स्यादाधिकारिकम्।

तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते॥ २८॥

Showing 141 to 150 of 2002 verses