अध्यात्मभवा आध्यात्मिकी। आत्मैव तामनुभवति, न चक्षुरादय इत्यर्थः। सापि पञ्चधा। तत्र—
का स्विदवकुण्ठनवती नातिपरिस्फुटशरीरलवाण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ २७॥
अनुबन्धिनी यथा—(विक्रमो. ४.३९)
तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्गमा।
नूनं मौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा॥ २८॥
प्रवृद्घा यथा—(शाकु. ५.२३)
मय्येवमस्मरणदारुणचित्तवृत्तौ वृत्तं रहःप्रणयमप्रतिपद्यमाने।
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरसनमिवातिरुषा स्मरस्य॥ २९॥