संपृक्ता यथा—(शाकु. ५.१९)
इदमुपगतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्नवेत्यव्यवस्यन्।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नापि शक्नोमिहातुम्॥
अनुवर्तिनी यथा—(शाकु. ५.३१)
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्।
बलवत्तु दूयमानं प्रत्यायतीव मां चेतः॥ ३१॥
. . . . औपमानिकी। सापि पञ्चधा। तत्र जाता यथा—(मेघ. १०१)
श्यामास्वङ्गं, चकितहरिणीप्रेक्षिते दृष्टिपातं वक्त्रच्छायां शशिनि, शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन् क्वचिदपि न ते चण्डि ! सादृश्यमस्ति॥ ३२॥