भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 241 to 250 of 1676 verses
ऊहश्च मन्त्रादन्यत्रापि भाषायां भवति। तद्यथा—(उराच. ४.२०)

चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम्।

मौर्व्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्टकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः॥ ५४॥

इत्युत्तरचरिते लवमेकमुद्दिश्य भवभूतिर्जनकमेतच्छ्‌लोकं पाठितवान्। तमेव पश्चाद् वीरचरिते धत्तस्त्वचं रौरवीमित्यूहयित्वा रामलक्ष्मणौ द्वावुद्दिश्य कुशध्वजमपीपठत्। अत्राप्युरः पाणिवासः कार्मुकादीनामूहो न भवति, सम्बन्धिभेदेनैव भेदसिद्धेः; भेदेन हि प्रतिपत्तव्येऽर्थे न यावदभेदेऽपि भवति तावन्न भिद्यते।

(२६. बाधः)

अर्थित्वात् सामान्योपदेशाभेद सति प्रवृत्तिसम्भवे वचनादसमीवाच्चरितार्थत्वात् फलाभावाद् विशेषे प्रत्यक्षश्रुतेः परिसङ्ख्यादिभ्यश्च दृष्टादृष्टार्थेषु कर्मसु तुल्यबलानां विरोधिनामविरोधिनां वार्थानामप्राप्‍त्यनुमानं बाधः। तद्यथा — अर्थित्वात् सामान्येन प्रवृत्तस्य मांसभक्षणस्य वचनाद् बाधः अभक्ष्यो ग्राम्यकुक्कुट इति; तथा गुरुवद् गुरुपुत्रे वर्तितव्यमिति सामान्योपदेशात् प्रवृत्तस्योच्छिष्टभोजनस्य अन्यत्रोच्छिष्ट— भोजनादिति। एवम् 'अष्टाश्रिर्यूपो भवति' इति सामान्योपदेशात् प्रवृत्तमष्टाश्रित्वं 'चतुरश्रो वाजपेययूप' इति द्वयोरसम्भवात् तद्‍‌विरोधी बाध्यते। 'व्रीहीनवहन्ति' इति सामान्योपदेशादर्थित्वाच्च प्रवृत्तं प्राकृतमवहननं नखनिर्भिन्नानां नखावपूतानां चरुर्भवतीति विकृतौ नखैरेव अवघातप्रयोजनस्य कृतत्वाच्चरितार्थत्वेन अविरोध्यपि बाध्यते। एवं 'शतकृष्णलश्चरुर्भवति' इति कृष्णलेषु फलाभावादेव नावघातः क्रियते। ब्राह्मणेभ्यो दधि दीयतामिति सामान्योपदेशात् कौण्डिन्येऽपि प्रसक्तं दधिदानमनिषिद्धं सम्भाव्य चरितार्थं फलवदविरुद्धं च, तक्रं कौण्डिन्यायेति विशेषे प्रत्यक्षश्रुतेस्तक्रदानेन बाध्यते। अर्थित्वात् पञ्चनखानामपञ्चनखानां च भक्षणं प्रसक्तं, भक्षणमविरुद्धमपि 'पञ्च पञ्चनखा भक्ष्या' इति परिसङ्ख्यया बाध्यते। आदिग्रहणाद् 'वामेनाक्ष्णैष पश्यति', 'काठिन्यमस्याः कुचयोः किमसद् यन्न रोचते', इत्यादिविशेषस्य वाचकमवगन्तव्यम्। भूयांश्च बाधस्य कविवाक्येष्वपि प्रयोगः। सोऽर्थित्वात् प्रवृत्तौ वचनतो यथा—

मृत्यो! किं मर्तुमिच्छुर्भगवति! भवती न क्षमा, शक्र! चक्री वार्यः, कार्यो न पूषन्नसदृशकलहो, नन्वयं कालकूटः।१

इत्यादावेव देवान् दमयितुमनसः पान्तु वश्चन्द्रमौले— स्त्रैलोक्याऽकाण्ड—चण्ड—प्रलय—कर—गर—ग्रास—गृघ्‍नोर्वचांसि॥ ५५॥

सामान्यश्रुतेः प्रतीतौ वचनतो यथा—

पद्‍भ्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलूयाऽधरम्।

Showing 241 to 250 of 1676 verses