अन्यथा दाहशब्देन दाहार्थस्संप्रतीयते॥ ३८॥
उच्यते — परिहृतमेतत् सकलविशेषग्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः। नैतावता सामान्यमात्रनिष्ठः शब्दो भवति। अपि च निष्कृष्टसामान्यांशवचनत्वे गोशब्दाद् गोत्वशब्दाच्च तपल्ये प्रतिपत्ती स्याताम्। गौः शुक्ल इतिवच्च गोत्वं शुक्लमिति बुद्धिः स्यात्। चातुर्वर्ण्यादिवच्च स्वार्थ एव गोशब्दाद् भावप्रत्ययस्त्वतलादिः स्यात्।
अथ मन्येथाः आक्षिप्तव्यक्तिकां जातिं गोशब्दो वक्ति, भावप्रत्ययान्तस्तु निष्कृष्टामिति, तदनुपपन्नम्; अनाक्षिप्तव्यक्तिकायाः क्वचिदपि जातेरदर्शनात्। अथ गोशब्दश्रवणवेलायां न व्यक्तिसंस्पर्शशून्या जातिरवगम्यते। भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छून्या शुद्धासौ प्रतीयत इति।
यद्येवमागतोऽसि मदीयं पन्थानम्, आश्रयवती चेज्जातिरुच्यते जात्याश्रय उक्त एव भवति; नान्यथा हि साश्रयवत्युक्ता स्यात्। तदाश्रयपरिहारेणाश्रयिसामान्य— मात्रविवक्षायां त्वतलादयः प्रयुज्यन्ते। तथा चाहुः 'यस्य गुणस्य हि भावाद्द्रव्ये शब्द— निवेशस्तदभिधाने त्वतलौ' (मभा. ५.१.११९) इति। गुणस्य भावाद्द्रव्ये शब्दनिवेश इत्यस्मत्पक्षसाक्षीण्यक्षराणि। सामानाधिकरण्यं च तत्रैवोपपद्यत इत्युक्तमेव। तस्मात्
यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते।
तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम्॥ ३९॥
अनुपरतव्यापार एव शब्दे तदवगमात्—(न्यायमं.)
येनान्विताभिधानं च पदानामभ्युपेयते।
सुतरां तेन वक्तव्या व्यक्त्यन्तं तावतो मतिः॥ ४०॥