भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 1087 verses
(२. लक्षितलक्षणा—६)

लक्षितलक्षणापि षोढैव— रूढलक्षणा, प्रतीकलक्षणा, विवक्षितलक्षणा, विरूद्धलक्षणा, तदन्यलक्षणा, प्रकीर्णलक्षणा च। तासु—

१. यस्यां यथाकथंचिद् व्युत्पत्त्या लक्षितेनाभिधानेन रूढलक्षण एवार्थो लक्ष्यते सा रूढलक्षणा। रोदरश्‍चक्रवाको द्विरेफो भ्रमर इति। यथा— (कुसं. ३.३६)

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रयां स्वामनुवर्तमानः॥ ९१॥

इति।

अत्र रोदरत्वं द्विरेफत्वं च कुररेऽपि सम्भवति, न चात्र रूढा लक्षणेति नायं लक्ष्यते।

२. यत्र प्रतीकेनाभिधानैकदेशेन समुदायो लक्षित एव लक्ष्यते, न यः कश्चित्, सा प्रतीकलक्षणा। यथा—

'भीमो भीमपराक्रमः, 'सच्‍चा अपि होइ अइअदंसणतुरीआ'। अत्र सेन—भामाशब्दो भीम—सत्या शब्दप्रतीकश्रवणात् भीमसेनः, सत्यभामा इत्यभिधानयोः पूर्वलक्षितयोर्लक्षणया लक्ष्येते। न हि भवति ज्येष्‍ठाः ज्येष्‍ठेति, आर्द्रा वार्द्रेति।

३. यत्र यथाकथंचिच्छब्दप्रयोगे विवक्षितमेव लक्ष्यानुसारतो लक्ष्यते सा

विवक्षितलक्षणा। यथा

Showing 361 to 370 of 1087 verses