तदभिहितान्वयवादिनो न मृष्यन्ते। ते ह्येवमाहुः– अनवगतपदार्थकस्य वाक्यार्थसम्प्रत्ययादर्शनात् पदार्थप्रतिपत्तिपूर्विकैव (वाक्यार्थ—)प्रतिपत्तिः। पदार्थप्रतिपत्तिश्चैवमवकल्पते। यदि तावानेव सोऽर्थः पदेनाभिधीयते पदार्थान्तरान्विते तु तस्मिन्नभिधीयमाने कदम्बकरूपार्थप्रतिपत्तेः पदार्थप्रविभागो न प्रकल्पेत। अस्य पदस्य जातिरर्थोऽस्य द्रव्यमस्य गुणोऽस्य क्रियेति आवापोद्वापाभ्यां तदवधारणमिति चेत् नैवम्, तत्रापि कदम्बकरूपार्थप्रतीतेरनपायात्॥
किंच प्रतियोगिनामनन्ततयान्वयस्यानन्त्यात् तदन्वयानन्त्येनान्विताभिधायिन्याः सम्बन्धग्रहणमशक्यमिति दुरवगमः पदार्थयोः सम्बन्धग्रहः; तदनपेक्षत्वे प्रथमश्रुतादपि तदर्थप्रतिपत्तिः प्राप्नोति। गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयेत, वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्तैव भवति। इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्येत्, सा चानन्त्याद्दुरुपपादेति शाब्दव्यवहारोच्छेदः स्यात्। दृश्यते चाभिनव—कवि—श्लोकात् वाक्यार्थप्रतीतिः; सा च पदपदार्थयोरेव व्युत्पत्तावुपपद्यते न वाक्यवाक्यार्थयोरिति नास्त्यन्विताभिधानम्॥
अपि चान्वयस्यान्वितविशेषणत्वात् तदभिधानमन्तरेणान्वितोऽभिधातुं न शक्यत इत्यन्वयाभिधानमङ्गीकरणीयम्। न च तदेकया शक्त्या शक्यतेऽभिधातुमिति शकत्यन्तरकल्पनाप्रसङ्गः। अपि च गामानयेत्यत्र यदा गोशब्देनानयत्यर्थविशिष्टः स्वार्थोऽभिधीयते तदा गवार्थस्याप्राधान्यम्, यदा च आनयतिना गवार्थविशिष्टः स्वार्थः तदा तदर्थस्येत्येतस्मिन्वाक्ये प्रधानद्वयोपनिपाताद् वाक्यभेदापत्तिः। अपि च प्रकृतिप्रत्यययोरन्योन्यान्वितस्वार्थाभिधानलब्धपदभावयोः पदार्थान्तरान्वितार्थवाचक— त्वमिति द्विरभिधानं स्यात्। किंच पदेनान्वितः स्वार्थोऽभिधीयमानः किमभिहितेन पदार्थान्तरेणान्वितोऽभिधीयते, उतानभिहितेन ? अनभिहितेन चेदेकस्मादेव पदात् तदर्थोपरञ्जकद्वितीयपदार्थावगतेः पदान्तरोच्चारणवैयर्थ्यम्। एवं चैकमेव पदमखिल— पदाभिधेयार्थवादि सम्पन्नमिति तेनैव व्यवहारः स्यात्। न चासौ सम्पद्यते। गौरिति ह्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति; नियतगुणक्रियानुरक्त— स्वार्थप्रतिपादने तु न हेतुरस्ति। पदान्तरसन्निधानं नियमहेतुरिति चेत्, तदपि जपमन्त्रादिपदवत् स्वरूपमात्रेण सन्निधानान्न विशिष्यते। अथाभिहितेन, तर्हि पदमन्विताभिधायितया पदान्तरोत्थमर्थाभिधानमपेक्षते; ततश्चेतरेतराश्रयमनवस्था चक्रकं वा प्राप्नोति॥
अथ द्वितीयमनन्वितमेव स्वार्थमभिधत्ते, प्रथमेन किमपराद्धम्। एवं च सर्वपदे स्वार्थमात्राभिधानादभिहितान्वय एव भवति॥
किंचाङ्गुल्यग्रे हस्तियूथशतमिति नास्त्यन्वयो योग्यत्वाभावात्; अन्विताभिधानवादिनां त्वन्वितस्याभिधानात् तत्राप्यन्वयः प्राप्नोति। अपि चान्विताभिधानवादिनां पुरुषवाक्यादेवमयं पुरुषो वेदेति भवति प्रत्ययो नैवमर्थं प्रति सिद्धान्तः। ते ह्येवमाहुः— वाक्यात् कार्यभूतात् प्रत्ययितस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं कारणभूतमनुमीयते, तस्य च ज्ञानस्य ज्ञेयाव्याभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति न वाचकशक्तयाऽर्थावगमः। एवं च वाचकशक्तिरेव नावधार्यते कुतोऽन्विताभिधानमिति। तस्मादभिहितानां पदार्थानामन्वय इति युक्तम्। पदानि हि स्वमर्थमभिधाय निवृत्तव्यापाराणि।
अथेदानीं पदार्था अवगता वाक्यार्थं गमयन्तीति।
अत्रान्विताभिधानपक्षे कदम्बकरूपार्थप्रतिपत्तेः प्रतियोगिनां चानन्ततया सम्बन्धग्रहणस्याशक्त्या दुरवगमः पदार्थप्रविभाग इति; तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्। न ह्येवं व्युत्पत्तिः गोशब्दस्य शुक्लान्वितोऽर्थ इति, स हि व्यभिचरति कृष्णान्वितस्यापि तदर्थस्योपलम्भात्; नापि सर्वान्वितः, आनन्त्येन दुरवगमत्वात्; किन्त्वाकाङ्क्षितसन्निहितयोग्यार्थान्तरानुरक्तोऽस्यार्थ इति। एतां च व्युत्पत्तिं वाक्यान्येव पदावापोद्वापविरचनावैचित्र्यभाञ्जि सञ्जनयन्ति। यतः—
ओप्यन्ते चोद्ध्रियन्ते च स्वार्थाः स्वान्वयशालिनः।
अन्विते स्वे च सामर्थ्यं पदानां तेन गम्यते॥ ६५॥