भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 746 verses
तदभिहितान्वयवादिनो न मृष्यन्ते। ते ह्येवमाहुः– अनवगतपदार्थकस्य वाक्यार्थसम्प्रत्ययादर्शनात् पदार्थप्रतिपत्तिपूर्विकैव (वाक्यार्थ—)प्रतिपत्तिः। पदार्थप्रतिपत्तिश्चैवमवकल्पते। यदि तावानेव सोऽर्थः पदेनाभिधीयते पदार्थान्तरान्विते तु तस्मिन्नभिधीयमाने कदम्बकरूपार्थप्रतिपत्तेः पदार्थप्रविभागो न प्रकल्पेत। अस्य पदस्य जातिरर्थोऽस्य द्रव्यमस्य गुणोऽस्य क्रियेति आवापोद्वापाभ्यां तदवधारणमिति चेत् नैवम्, तत्रापि कदम्बकरूपार्थप्रतीतेरनपायात्॥

किंच प्रतियोगिनामनन्ततयान्वयस्यानन्त्यात् तदन्वयानन्त्येनान्विताभिधायिन्याः सम्बन्धग्रहणमशक्यमिति दुरवगमः पदार्थयोः सम्बन्धग्रहः; तदनपेक्षत्वे प्रथमश्रुतादपि तदर्थप्रतिपत्तिः प्राप्‍नोति। गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयेत, वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्तैव भवति। इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्येत्, सा चानन्त्याद्‍दुरुपपादेति शाब्दव्यवहारोच्छेदः स्यात्। दृश्यते चाभिनव—कवि—श्लोकात् वाक्यार्थप्रतीतिः; सा च पदपदार्थयोरेव व्युत्पत्तावुपपद्यते न वाक्यवाक्यार्थयोरिति नास्त्यन्विताभिधानम्॥

अपि चान्वयस्यान्वितविशेषणत्वात् तदभिधानमन्तरेणान्वितोऽभिधातुं न शक्यत इत्यन्वयाभिधानमङ्गीकरणीयम्। न च तदेकया शक्त्या शक्यतेऽभिधातुमिति शकत्यन्तरकल्पनाप्रसङ्गः। अपि च गामानयेत्यत्र यदा गोशब्देनानयत्यर्थविशिष्टः स्वार्थोऽभिधीयते तदा गवार्थस्याप्राधान्यम्, यदा च आनयतिना गवार्थविशिष्टः स्वार्थः तदा तदर्थस्येत्येतस्मिन्वाक्ये प्रधानद्वयोपनिपाताद् वाक्यभेदापत्तिः। अपि च प्रकृतिप्रत्यययोरन्योन्यान्वितस्वार्थाभिधानलब्धपदभावयोः पदार्थान्तरान्वितार्थवाचक— त्वमिति द्विरभिधानं स्यात्। किंच पदेनान्वितः स्वार्थोऽभिधीयमानः किमभिहितेन पदार्थान्तरेणान्वितोऽभिधीयते, उतानभिहितेन ? अनभिहितेन चेदेकस्मादेव पदात् तदर्थोपरञ्जकद्वितीयपदार्थावगतेः पदान्तरोच्‍चारणवैयर्थ्यम्। एवं चैकमेव पदमखिल— पदाभिधेयार्थवादि सम्पन्नमिति तेनैव व्यवहारः स्यात्। न चासौ सम्पद्यते। गौरिति ह्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति; नियतगुणक्रियानुरक्त— स्वार्थप्रतिपादने तु न हेतुरस्ति। पदान्तरसन्निधानं नियमहेतुरिति चेत्, तदपि जपमन्त्रादिपदवत् स्वरूपमात्रेण सन्निधानान्न विशिष्यते। अथाभिहितेन, तर्हि पदमन्विताभिधायितया पदान्तरोत्थमर्थाभिधानमपेक्षते; ततश्‍चेतरेतराश्रयमनवस्था चक्रकं वा प्राप्‍नोति॥

अथ द्वितीयमनन्वितमेव स्वार्थमभिधत्ते, प्रथमेन किमपराद्धम्। एवं च सर्वपदे स्वार्थमात्राभिधानादभिहितान्वय एव भवति॥

(अन्विताभिधानम्)

किंचाङ्गुल्यग्रे हस्तियूथशतमिति नास्त्यन्वयो योग्यत्वाभावात्; अन्विताभिधानवादिनां त्वन्वितस्याभिधानात् तत्राप्यन्वयः प्राप्‍नोति। अपि चान्विताभिधानवादिनां पुरुषवाक्यादेवमयं पुरुषो वेदेति भवति प्रत्ययो नैवमर्थं प्रति सिद्धान्तः। ते ह्येवमाहुः— वाक्यात् कार्यभूतात् प्रत्ययितस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं कारणभूतमनुमीयते, तस्य च ज्ञानस्य ज्ञेयाव्याभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति न वाचकशक्त‍याऽर्थावगमः। एवं च वाचकशक्तिरेव नावधार्यते कुतोऽन्विताभिधानमिति। तस्मादभिहितानां पदार्थानामन्वय इति युक्तम्। पदानि हि स्वमर्थमभिधाय निवृत्तव्यापाराणि।

अथेदानीं पदार्था अवगता वाक्यार्थं गमयन्तीति।

अत्रान्विताभिधानपक्षे कदम्बकरूपार्थप्रतिपत्तेः प्रतियोगिनां चानन्ततया सम्बन्धग्रहणस्याशक्त्या दुरवगमः पदार्थप्रविभाग इति; तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्। न ह्येवं व्युत्पत्तिः गोशब्दस्य शुक्लान्वितोऽर्थ इति, स हि व्यभिचरति कृष्णान्वितस्यापि तदर्थस्योपलम्भात्; नापि सर्वान्वितः, आनन्त्येन दुरवगमत्वात्; किन्त्वाकाङ्क्षितसन्निहितयोग्यार्थान्तरानुरक्तोऽस्यार्थ इति। एतां च व्युत्पत्तिं वाक्यान्येव पदावापोद्वापविरचनावैचित्र्यभाञ्जि सञ्जनयन्ति। यतः—

ओप्यन्ते चोद्ध्रियन्ते च स्वार्थाः स्वान्वयशालिनः।

अन्विते स्वे च सामर्थ्यं पदानां तेन गम्यते॥ ६५॥

Showing 361 to 370 of 746 verses