भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 595 verses
अयमस्य पदस्यार्थ इति किं चिन्तितेन वा।

योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्थितिः॥ ६०॥

(न्यायमं.)

(१२. वाक्‍यार्थः)

वाक्‍यार्थस्त्रिधा — १. भावना, २. विधिः, ३. प्रतिभा च।

(१. भावना)

तत्रन्योत्पादानुकूलो भवन्तं प्रयुञ्जानः पुरुषव्यापारः करोत्यर्थो भावनेत्युच्यते।

अनवच्छिन्नश्‍चानुष्ठातुमशक्‍य इति सान्निध्यात् समानपदोपात्तं धात्वर्थ— मवच्छेदकत्वेनापेक्षते। स चौदनं पचतीत्यादौ समानपदोपात्तत्वेऽप्ययोग्यत्वेन साध्यत्वात् प्रच्युतः करणांशोऽभिनिविशमानः प्रधानक्रियामोदनफलिकां निष्पादयति। करणं च केवलमसाधकतमत्वात् क्‍वचिदपि क्रियां निष्पादयन्नोपलब्धम्। अतस्तत्साधकतमत्वसिद्धये काष्ठादीतिकर्तव्यतानुप्रवेशः, फलानुप्रवेशस्तु तदुद्देशेनैव भावनायाः प्रवृत्तेः। अतः फलकरणेतिकर्त्तव्यतावच्छेदात् किं केन कथमित्यपेक्षिणी त्र्यंशपरिपूर्णा भावना भवति। तत्र देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ ओदनं फलं, पाकः करणं, काष्ठादिकारकचक्रमितिकर्तव्यता इति। तदुक्तम् —

ओदने साध्यमाने हि पाकः करणमिष्यते।

स्थाल्यग्‍निचुल्लीकाष्ठानामितिकर्तव्यता मता॥ ६१॥

Showing 361 to 370 of 595 verses