अयमस्य पदस्यार्थ इति किं चिन्तितेन वा।
योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्थितिः॥ ६०॥
वाक्यार्थस्त्रिधा — १. भावना, २. विधिः, ३. प्रतिभा च।
तत्रन्योत्पादानुकूलो भवन्तं प्रयुञ्जानः पुरुषव्यापारः करोत्यर्थो भावनेत्युच्यते।
अनवच्छिन्नश्चानुष्ठातुमशक्य इति सान्निध्यात् समानपदोपात्तं धात्वर्थ— मवच्छेदकत्वेनापेक्षते। स चौदनं पचतीत्यादौ समानपदोपात्तत्वेऽप्ययोग्यत्वेन साध्यत्वात् प्रच्युतः करणांशोऽभिनिविशमानः प्रधानक्रियामोदनफलिकां निष्पादयति। करणं च केवलमसाधकतमत्वात् क्वचिदपि क्रियां निष्पादयन्नोपलब्धम्। अतस्तत्साधकतमत्वसिद्धये काष्ठादीतिकर्तव्यतानुप्रवेशः, फलानुप्रवेशस्तु तदुद्देशेनैव भावनायाः प्रवृत्तेः। अतः फलकरणेतिकर्त्तव्यतावच्छेदात् किं केन कथमित्यपेक्षिणी त्र्यंशपरिपूर्णा भावना भवति। तत्र देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ ओदनं फलं, पाकः करणं, काष्ठादिकारकचक्रमितिकर्तव्यता इति। तदुक्तम् —
ओदने साध्यमाने हि पाकः करणमिष्यते।
स्थाल्यग्निचुल्लीकाष्ठानामितिकर्तव्यता मता॥ ६१॥