अभिदध्युः स्वशक्त्या हि विधिमात्रं लिङादयः॥ ६३॥
तस्याश्च 'किं केन कथम्' इत्यपेक्षायामर्थभावनाविषया पुरुषप्रवृत्तिः फलांशः, प्रेरणाज्ञानं करणांशः, अर्थवादादय इतिकर्तव्यतांश इति त्र्यंशपरिपूर्णत्वम्; सा च फलकरणयोः साध्यसाधनभावमज्ञातं गमयन्ती गमकत्वात् प्रमाणं भवति। ननु च
विधिलक्षणमेतावदप्रवृत्तप्रवर्तनम्।
अज्ञातज्ञापनं ह्येवं सर्वोऽपि हि विधिर्भवेत्॥ ६४॥
तथा हि— (श्लोकवा. ५.१२—१३)
साध्यसाधनसम्बन्धः सर्वाख्यातेषु विद्यते।
सर्ववाक्येषु चाख्यातं तेनाकाङ्क्षानिवर्तनात्॥ ६५॥
न च साध्यसाधनभावावगममन्तरेण प्रवर्तकत्वं न सिद्धयतीति साध्य— साधनभावावगतिरवश्यकल्पनीया। प्रेरणाज्ञानजनकत्वेनैवास्य प्रवर्तकत्वात्। किमित्यसौ निष्फले व्यापारे प्रवर्तत इति चेद्, विधित एतेति ब्रूमः। स हि सफले निष्फले वा व्यापारे पुरुषं प्रवर्तयत्येव। यच्च पुरुषेष्वप्रवर्तमानेष्वपि प्रामाण्यं तदपरिहार्यमेव। कल्पिते हि फले वैषयिकसुखद्वेषिणो वीतरागा न प्रवर्तन्ते, प्रवृद्धतररागास्तु न निवर्तन्त इति (न्यायमं.)।