प्रातःप्रत्यूषयोस्स्नाति भुङ्क्ते सन्ध्यापराहणयोः।
प्राहणमध्याह्नयोर्यूनां शेते मनसि मन्मथः॥ ६७॥
अयं ह्यपेक्षितरात्रिविभागापौर्वापर्यावधिः कामिनां दूतीसंप्रेषणप्रेक्षानिद्रासुख— मधुपानाभिसरणादेरूपभोगस्य निमित्तं भवति। यथा—
निशामुखे प्रदोषे च निशीथापररारत्रयोः।
इन्दोः प्रकशे नाशे व सुप्तः कामो विबुध्यते॥ ६८॥
(प्रायोगिकः) शरद्धेमन्तशिशिरवसन्तग्रीष्मवर्षारूपः प्रायोगिकः।
अयं ह्यपेक्षितसंवत्सरविषु— पौर्वापर्यावधिं प्राणिनां कामकृतचित्तवैकृतानां प्रयोगनिमित्तं भवति। यथा—
शरद्धेमन्तयोरन्यदन्यद् वर्षावसन्तयोः।
हिमर्तुग्रीष्मयोरन्यत् कामावस्था प्रवर्तते॥ ६९॥
तेऽमी त्रयोऽप्यौद्योगिकौपयोगिकप्रायोगिकाः कालभेदा नैमित्तिका उच्यन्ते। नित्यत्वेऽप्येषामुद्योगादेर्निमित्तत्वात्।