भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 331 to 340 of 756 verses
प्रातःप्रत्यूषयोस्स्‍नाति भुङ्क्ते सन्ध्यापराहणयोः।

प्राहणमध्याह्नयोर्यूनां शेते मनसि मन्मथः॥ ६७॥

अयं ह्यपेक्षितरात्रिविभागापौर्वापर्यावधिः कामिनां दूतीसंप्रेषणप्रेक्षानिद्रासुख— मधुपानाभिसरणादेरूपभोगस्य निमित्तं भवति। यथा—

निशामुखे प्रदोषे च निशीथापररारत्रयोः।

इन्दोः प्रकशे नाशे व सुप्‍तः कामो विबुध्यते॥ ६८॥

(प्रायोगिकः) शरद्धेमन्तशिशिरवसन्तग्रीष्मवर्षारूपः प्रायोगिकः।

अयं ह्यपेक्षितसंवत्सरविषु— पौर्वापर्यावधिं प्राणिनां कामकृतचित्तवैकृतानां प्रयोगनिमित्तं भवति। यथा—

शरद्धेमन्तयोरन्यदन्यद् वर्षावसन्तयोः।

हिमर्तुग्रीष्मयोरन्यत् कामावस्था प्रवर्तते॥ ६९॥

तेऽमी त्रयोऽप्यौद्योगिकौपयोगिकप्रायोगिकाः कालभेदा नैमित्तिका उच्यन्ते। नित्यत्वेऽप्येषामुद्योगादेर्निमित्तत्वात्।

Showing 331 to 340 of 756 verses