भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 311 to 320 of 756 verses
२. नैमित्तिकोऽपि औद्योगिकः, औपभोगिकः प्रायोगिकश्‍चेति त्रिविधः। एवं

३. स्वाभाविकोऽपि आगन्तुकः, नैसर्गिकः, सांसर्गिक इति त्रिधा।

४. वैपरामार्शिकोऽपि सङ्कीर्णः, प्रकीर्णो, विप्रकीर्ण इति त्रिधैव।

(१. नित्यः)

(शाश्वतिकः) तेषु क्षणनिमेषनाडिकामुहूर्तप्रहराहोरात्रस्वरूपश्शाश्वतिकः।

अयं हि शश्वत्प्रवर्तमानो नावधिविशेषमपेक्षते। यथा—

क्षणे निमेषे नाङ्या वा मुहूर्ते प्रहरेऽह्नि वा।

गते त्वमेष्यसीत्युक्ते रूरोध पथिकं प्रिया॥ ६४॥

(वैकल्पिकः) दिनरात्रिपक्षमासर्त्वयनरूपो वैकल्पिकः।

अयं हि सुर्योदयादिविशिष्‍टमवधिमपेक्षमाणो विकल्पाय प्रभवति। यथा—

Showing 311 to 320 of 756 verses