कर्मरुप द्विधा, सजातीयस्थमसजातीयस्थं च।
सजातीयस्थं यथा— अयानयं नेयः अयानयीनः शारः, मासं भृतो मासिको भृत्यः, वर्षमधीष्टो वार्षिक उपाध्यायः, पक्षं लक्षः(?) पाक्षिको निबन्धः, षण्मासं क्रीतः षाण्मासिको दासः, संवत्सरं कृतस्सांवत्सरिकोऽभ्यास इति।
असजातीयस्थं यथा— वामदेवेन दृष्टं वामदेव्यं साम, लाक्षया रक्तं वस्त्रं लाक्षिकं, देवाय देयं दैव्यं हविः, तन्त्रादचिरापहृतः तन्त्रकः पटः, द्वारे नियुक्तो दौवारिकः पुमान्, चतुर्दश्यां दृश्यते चातुर्दश्यं रक्ष इति।
अर्थान्तरनुबन्धमनुस्यूतम्। तदि्द्वधा— क्रियानुस्यूतं कारकानुस्यूतं च। तयोः—
क्रियानुस्यूतं यथा— सीतान्वेषणमधिकृत्य कृतो ग्रन्थः 'सीतान्वेषणीयः', एवं 'किरातार्जुनीयः', 'वाक्यपदीयः', पौषी पौर्णमासी अस्मिन् मासे भवति पौषः, एवमाग्रहायणिकः, आश्वत्थिक इति।
कारकानुस्यूतं यथा— तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाश्छात्राः, एवं वारतन्तवीयाः, छागलेयिनः, ऐतरेयिणः, तथा पाराशरिणो भिक्षवः, शैलालिनो नटाः।
(२) भिन्नक्रियं त्रिधा लक्षितक्रियमपेक्षितक्रियमनुषक्तक्रियं च। तेषु—
लक्षितक्रियं द्विधा— कर्तृस्थं कर्मस्थं च। तयोः
कर्तृस्थं यथा— मुद्गा भवन्त्यस्मान्मौद्गीनं क्षेत्रम्, दण्डिनः सन्त्यस्यां दण्डिमती शाला, वरणाः सन्ति अस्मिन् वरणा नगरमिति।
कर्मस्थं यथा—श्राद्धमनेनाद्य भुक्तं श्राद्धिकः, अग्रभोजनमस्मै दीयते आग्रभोजनिकः, पदमस्मिन् दृश्यं पद्यः कर्दम इति।