यमाश्रित्य 'तद्धितार्थ' इति समासो भवति (स) समासनिमित्तम्। यथा— द्वैमातुरः, पञ्चकपाल इति।
सम्बन्धी यस्य तु समासन्त इति समासो निमित्तं स समासनिमित्तः। यथा—देवराजः, प्रत्युरसमिति।
सम्बन्धी न्निधा— (१) क्रिया, (२) द्रव्यं (३) गुणश्च। तेषु —
(१) क्रिया न्निधा— क्रियासम्बन्धिनी, कारकसम्बन्धिनी उभयसम्बन्धिनी च। तासु— क्रियासम्बन्धिनी द्विधा— भिन्नरूपाऽभिन्नरूपा च।
भिन्नरूपा यथा— कर्तुमिच्छति चिकीर्षति, जुगुप्सिच्छति जुगुप्सिषत' इति।
अभिन्नरूपा यथा— अत्यर्थं पचति पापच्यते, पुनः पुनः पठति पापठ्यत इति।
कारकसम्बन्धिन्यपि द्विधा, साकाङ्क्षा निराकाङ्क्षा च।
साकाङ्क्षा यथा— पटमिवाचरति पटीयति कम्बलम्, प्रासाद इवाचरति प्रासादीयति कुटी।
निराकाङ्क्षा यथा—पुत्रमिच्छति पुत्रीयति, पुच्छमुदस्यत्युत्पुच्छयत इति।