'हारीतोऽत्रिरहं तथा' इति।
वा, अथ, अथो, यदि, चण्, चेत्, नेत्, मा इति विकल्पार्थाः
यथा—'राज्यं वा कर्त्तव्यं भाष्यं वा श्रोतव्यम्',
'ऋतौ व्यवेयादथाऽनृतौ पर्ववर्जम्',
'नदीषु स्नायादथो देवखाते',
'त्वं च गन्ता किमत्र मे',
'उपाध्यायश्चेदागच्छेद् आशंसे युक्तोऽधीयीय', (मभा. ३.३.१३३)
'नेज्जिह्मयन्त्यो नरकं पताम', (निरुक्तम् १.११.१)