मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता।
योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ ३४ ॥
कुतो भवानध्वग! चित्रकूटाद् दृष्टस्त्वया श्रीललितस्वभावः।
किं तेन मुग्धे मदनोत्सवेऽस्मिन् कामं त्वया वेश्मनि लेखयामि ॥ ३५ ॥
कर्त्रा कर्मणा व्यवहितं क्रियाधारोऽधिकरणम्। तत्त्रिधा—१. वैषयिकं, २. औपश्लेषिकं, ३. नैमित्तिकं च। तेषु —
(१) वैषयिकं द्विधा — द्रव्यवैषयिकं गुणवैषयिकं च। तयोराद्यं यथा— (माघ. ९.४५)
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महती (ति)।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ३६ ॥