द्वितीयं यथा-(कुसं. ७.८६)
इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ २९ ॥
तत्र कर्त्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्विभागमवगाहते तदपादानम्। तत्त्रिधा — १. निर्दिष्टविषयम् २. उपात्तविषयम् ३. अपेक्षितक्रियं चेति।
(१) तेषु निर्दिष्टविषयं द्विधा— उज्झितम् अनुज्झितं च।
तयोराद्यं यथा—(रघु. १६.४८)
स्वेदानुविद्धार्द्रनखक्षताङ्के सन्दष्ट भूयिष्ठशिख कपोले।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ ३० ॥
द्वितीयं यथा—(किराता. ९.११)