भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 689 verses
(२) क्रियाकर्मव्याप्यं द्विधा ददात्यर्थविषयम् अददात्यर्थविषयं च। तत्र प्रथमं यथा—(किराता. ५.२८)

श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि।

अस्मिन् रतिश्रमनुदश्‍च सरोजवाताः स्मर्त्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २६ ॥

द्वितीयं यथा—(कुसं. ३.६०)

शशंस तस्मै प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम्।

प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥ २७ ॥

(३) क्रियाव्याप्यमपि द्विधैव, पारिभाषिकमपारिभाषिकं च।

तयोः प्रथमं यथा—(किराता. ९.३५)

न स्रजो रुरुचिरे रमणीभ्यश्‍चन्दनानि विरहे मदिरा वा।

साधनेष्वपि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ २८ ॥

Showing 141 to 150 of 689 verses