शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः।
तटान्तनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ २० ॥
द्वितीयं यथा—(कुसं. ५.३९)
प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि।
यतस्सतां सन्नतगात्रि! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ २१ ॥
(३) बाह्याभ्यन्तरमपि द्विधा बहिर्मुखम् अन्तर्मुखं च।
गतया पुरः प्रतिगवाक्षमुखिं दधती रतेन भृशमुत्सुकताम्।
मुहुरन्तरालभवमस्तगिरेस्सवितुश्च योषिदमिमीत दृशा ॥ २२ ॥