क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्। तदपि त्रिधा — १. बाह्यम् २. आभ्यन्तरं ३. बाह्याभ्यन्तरं च।
(१) तेषु बाह्यं द्विधा— व्यवधायकम् अव्यवधायकं च। तयोराद्यं यथा—(कुसं. ७.१४)
धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम्।
पर्यक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ १८ ॥
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम्।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ १९ ॥
(२) अभ्यन्तरमपि द्विधा कर्त्तुर्भिन्नमभिन्नं च।
तयोर्भिन्नं यथा—(किराता. ८.३२)