भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 689 verses
(करणपदम्)

क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्। तदपि त्रिधा — १. बाह्यम् २. आभ्यन्तरं ३. बाह्याभ्यन्तरं च।

(१) तेषु बाह्यं द्विधा— व्यवधायकम् अव्यवधायकं च। तयोराद्यं यथा—(कुसं. ७.१४)

धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम्।

पर्यक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ १८ ॥

द्वितीयं यथा— (रघु. ६.३)

वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम्।

शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ १९ ॥

(२) अभ्यन्तरमपि द्विधा कर्त्तुर्भिन्नमभिन्नं च।

तयोर्भिन्नं यथा—(किराता. ८.३२)

Showing 111 to 120 of 689 verses