(२) विकार्यमपि द्विधा प्रकृत्युच्छेदात् गुणान्तराधानाच्च।
तत्र प्रथमं यथा—(कुसं. ३.७२)
क्रोधं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति। तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ १४ ॥
द्वितीयं यथा—(कुसं. ८.२७)
तां पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः प्रसाधयन्। नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरैक्ष्यत ॥ १५ ॥
(३) प्राप्यमपि द्विधैव कथितम् अकथितं च।
तत्र यत् कृत्य—क्त—खल—र्थादिभिर—भिधीयते तत् कथितम्। यत् तैर्नाभिधीयते तदकथितम्। तयोराद्यं यथा— (किराता. ८.६)
निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा। विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टोष्ठकरावधूननम् ॥ १६ ॥
द्वितीयं यथा—(कुसं. ६.२९)
तामस्मदर्थे युष्माभिर्याचितव्यो हिमाचलः। विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ १७ ॥