भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 689 verses
(२) विकार्यमपि द्विधा प्रकृत्युच्छेदात् गुणान्तराधानाच्च।

तत्र प्रथमं यथा—(कुसं. ३.७२)

क्रोधं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति। तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ १४ ॥

द्वितीयं यथा—(कुसं. ८.२७)

तां पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः प्रसाधयन्। नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरैक्ष्यत ॥ १५ ॥

(३) प्राप्यमपि द्विधैव कथितम् अकथितं च।

तत्र यत् कृत्य—क्त—खल—र्थादिभिर—भिधीयते तत् कथितम्। यत् तैर्नाभिधीयते तदकथितम्। तयोराद्यं यथा— (किराता. ८.६)

निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्‍चलबालपल्लवा। विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टोष्ठकरावधूननम् ॥ १६ ॥

द्वितीयं यथा—(कुसं. ६.२९)

तामस्मदर्थे युष्माभिर्याचितव्यो हिमाचलः। विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ १७ ॥

Showing 101 to 110 of 689 verses