परविभक्तिवाच्यो यथा—(माघ. १०.३३)
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः। तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः ॥ ६ ॥
(२. अस्वतन्त्रः) योऽन्यप्रयुक्तः क्रियासु व्याप्रियते सोऽस्वतन्त्रः। सोऽपि द्विधा— १. उद्भूतव्यापारः २. अनुद्भूतव्यापारश्च।
तयोरुद्भूतव्यापारो यथा—(किराता. १.३१)
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां जनाधिपः। परैस्त्वदन्यः क इवाऽपहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥ ७ ॥
अनुद्भूतव्यापारो यथा—(किराता ९.७१)
चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदश्शशिभासः। सङ्गतं च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ८ ॥
(३. कर्मकर्त्ता) कर्मकर्त्तापि द्विधैव—
१. उद्रिक्त्तकर्मांशः, २. अनुद्रिक्त्तकर्मांशश्च।
तयोरुद्रिक्त्तकर्मांशो यथा—