बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ २३ ॥
क्रियाकार्यत्वेनावधारितं कर्मणा क्रियया वा संयोगं यदनुभवति तत् सम्प्रदानम्। तत् त्रिधा १. ददातिकर्मव्याप्यम्, २. कर्ममात्रव्याप्यम्, ३.क्रियाव्याप्यञ्चेति। तेषु—
(१) ददातिकर्मव्याप्यं द्विधा १. स्वत्वस्याऽनिवृत्तौ २. निवृत्तौ च तयोराद्यं यथा—(कुसं. ८.१९)
चुम्बनादलकचूर्णदूषितं शङ्करोऽपि नयनं ललाटजम्।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ २४ ॥
द्वितीयं यथा—(विक्रमो. ३.१४)
दातुं वा प्रभवसि मामन्यस्यै कर्त्तुमेव वा दासम्।
नाहं पुनस्तथा त्वं यथा हि मां मन्यसे भीरु ॥ २५ ॥