चलन्तो देवदत्ताद्यास्तदनन्तरमोदनः।
एतावद्दृश्यते तत्र न त्वन्या काचन क्रिया॥ १२॥
क्रियानिमित्तसंसर्गवादिनोऽपि द्वयी गतिः।
सत्यां क्रियायां संसर्गस्संसर्गे सति वा क्रिया॥ १३॥
अत्रापि पक्षे पूर्वस्मिन् संसर्गः क्वोपयुज्यते।
तथा सति फलं सिध्येत् काष्ठादेः केवलादपि॥ १४॥
संसर्गात् तु क्रिया सिद्धा पुनरेकैकमक्रियम्।
तथा च सति नैधांसि ज्वलेयुः पिठराद् विना॥ १५॥
१. ज्वलन्त्येधांसि न पुनः पचन्ति पिठरान्विताः।