अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः, यथा यावज्जीवं भृशमन्नमदात्।
विवक्षितक्रियानन्तर्यः सामीप्याद्यतनः, यथा— येयं गता पौर्णमासी अस्यामुपाध्यायोऽग्नीनाधित। अत्रानन्तरयोः 'नानद्यतनवत् क्रियाप्रबन्ध— सामीप्ययोः' इति स्मर्यते।
(२. भूतानद्यतनः —६) एवं लङ्निमित्तमविद्यमानाद्यतनो भूतानद्यतनः।
स षोढा— सामान्यानद्यतनः, विशेषानद्यतनः, अभिज्ञानद्यतनः, प्रसिद्धयपरोक्षः, प्रश्नापरोक्षः, ह—शश्वदपरोक्ष इति। तेषु—
अविवक्षितपरोक्षत्वादिः सामान्यानद्यतनः यथा— अकरोत्, अशृणोत्, न्यषीदत्, अमुत्रावसम्, 'आसीदिदं तमोभूतम्' रामो वनमगच्छदिति।
पदान्तरावगतपरोक्षत्वादिविशोषो विशेषानद्यतनः, यथा— अवसन्निह पुरा छात्राः।
'न यदि' इत्यभिज्ञावचनं लृङपवादोऽभिज्ञानद्यतनः, यथा— स्मरसि देवदत्त काश्मीरेषु यवदसाम।
लोकप्रसिद्धेरारोपितापरोक्षाभिमानः प्रसिद्धयपरोक्षः, यथा—अजयज्जयन्तो हूणान्।
प्रश्नोपभुक्तपरोक्षत्वं प्रश्नापरोक्षः, यथा— किमगच्छद्देवदत्तः।
ह—शश्वदर्थोपक्षीणपरोक्षत्वो ह—शश्वदपरोक्षः, यथा—इति ह अकरोत्, शश्वदकरोदिति।