बालाधरोऽधिरोहति कुसुमरुचः काञ्चनारस्य॥ १०॥
५. पक्ता पचन् पक्वः पच्यमान इत्यादिः क्रियाविषया यथा— (भट्टि. १८.४०)
दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पितॄन्।
युध्यभग्नविपन्नस्य किं दशास्यस्य शोचति॥ ११॥
कुविआओ पसण्णाओ ओरुण्णमुहीओ विहसमाणीओ।
जह गहिआ तह हिअअं हरंति उच्छण्णमहिळाओ॥ १२॥
(कुपिताः प्रसन्ना अवरुदितमुख्यो विहसन्त्यः।
यथा गृहीतास्तथा हृदयं हरन्ति उत्सन्नमहिलाः॥)