२. अयं, सः, त्वम्, अहम् इत्यादिव्यपदेशार्हार्था व्यक्तिविषया यथा—
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।
रामा रम्ये वनोद्देशे मया विरहिता त्वया॥ ५॥
निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि।
नीलोत्पलेषु विमृशति करमर्पयितुं कुसुमलावी॥ ६॥
३. चित्रबिम्बप्रतिमाद्यर्थवाचिन्याकृतिविषया यथा—
इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत् समागमः॥ ७॥