स्वार्थाविनाभूतार्थान्तरोपलक्षणा तु लक्षणेति।
तथा हि — गौरित्ययं शब्दो मुख्यया वृत्त्या सास्नादिमन्तमर्थ प्रतिपादयति; स एव तिष्ठन्मूत्रतादिगुणसम्पदमपेक्षमाणो यदा बाहीके वर्तते तदा गौणीं वृत्तिमनुभवति। तदाह—
रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।
समुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गतिः॥ १॥ (प्रवा. प्रत्यक्ष ३७)
यदा तु शब्दः स्वार्थतः क्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदाभिधेया— विनाभूतमर्थान्तरं लक्षयति, तदा सा च लक्षणा वृत्तिः। यथा गङ्गायां घोषः प्रतिवसति। अत्र गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिः। स च घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं लक्षयति। तदुक्तम्—
अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या।
सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते॥ २॥ (तवा. १.४.२३)
प्रत्येकं चैतास्तिस्त्रोऽपि द्विधाभूय पृथक् षोढा भिद्यन्ते। तत्र—
मुख्या द्विधा— १. तथाभूतार्था, २. तद्भावापत्तिश्च। तयोः —