वैभाषिकी यथा— अश्वबडबम् अश्वबडबौ (काशिका २.४.१२), लक्षन्यग्रोधं प्लक्षन्यग्रोधाः (काशिका २.४.१२), पूर्वे फल्गुन्यौ पूर्वाः फल्गुन्य (काशिका १.२.६०) इति। अत्र विभाषयैकत्वद्वित्वबहुत्वानीति वैभाषिकी।
पारिशेषिकी यथा—एकः द्वौ बहवः, उभौ द्वित्राः, अर्धतृतीया इति।
अत्रैकाद्युक्तसङ्ख्यापरिशेषे स्वादय इति पारिशेषिकी। तदुक्तम्—
निमित्तमेकमित्यत्र विभक्तया नाभिधीयते।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते॥ १॥
कारकं षडि्वधमभिहितं पुरस्तात् (पु. २२१–२४५)। तद् द्वितीयादिवाच्यत्वेन पृथक्पृथक् षट्प्रकारं प्रथते। तत्र—
कर्म द्वितीयावाच्यं, कटं करोति; तृतीयावाच्यं, मात्रा सञ्जानीते; चतुर्थीवाच्यं, न त्वा शुने मन्ये; पञ्चमीवाच्यं, परि त्रिगर्तेभ्यो वृष्टो देवः; षष्ठीवाच्यं, मातुः स्मरति; सप्तमीवाच्यम्, अधीती व्याकरणे।
कर्ता द्वितीयावाच्यः, गमयति ग्रामं देवदत्तम्; तृतीयावाच्यः, चैत्रेण कृतम्; चतुर्थीवाच्यः, मूत्राय कल्पते यवागूः; पञ्चमीवाच्यः, उपाध्यायादधीते; षष्ठीवाच्यः, व्यासस्य कृतिः; सप्तमीवाच्यः, ब्राह्मणेषु भुञ्जानेषु वृषला आसते।