स तु पारम्पर्येण सुखहेतुत्वात् रत्यादिभूमसूपचारेण व्यवह्रियते। अतो न रत्यादीनां रसत्वं, अपि तु भावनाविषयत्वाद् भावत्वमेव।
यदप्युक्तं परप्रकर्षगामी रत्यादिभावो रस इति, तदप्यसारम्, ग्लान्यादिष्वपि तदुपपत्तेः। ग्लान्यादयोऽपि श्रमादिभिः परं प्रकर्षमारोप्यन्ते। न ते स्थायिन इति चेत्, स्थायित्वमेषामुत्पन्नतीव्रसंस्कारात्। संस्कारोत्पत्तिश्च विषयातिशयान्नायकप्रकृतेश्च। प्रकृतिश्च त्रिधा सात्त्विकी, राजसी, तामसीति। तद्वशाच्च तथाविधानुभवभावनोत्पत्तिः। ततश्चैषां स्थायित्वव्यपदेश इति।
नन्वष्टौ स्थायिनोऽष्टौ सात्त्विकास्त्रयस्त्रिंशद् व्यभिचारिण इति ब्रुवते?
यतोऽमीषामन्यतमस्यैतैरेव परस्परं निर्वर्त्यमानत्वात्। कश्चित् कदाचित्स्थायी, कदाचित्तु व्यभिचारी। अतोऽवस्थावशात् सर्वेऽप्यमी व्यभिचारिण:, सर्वेऽपि च स्थायिनः, सात्त्विका अपि सर्व एव मनःप्रभवत्वात्। अनुपहतं हि मनस्सत्त्वमित्युच्यते।
यच्चोक्तं विभावानुभावव्यभिचारिसंयोगात् स्थायिनो रसत्वमिति२, तदपि मन्दम्, १. 'सुख.=दुःखा.' राघवः, लेष्वपि सुखदुःखा इति तत्र पाठान्तरम्। मनसा गृहीतमात्मना रस्यते इति तु विवक्षितमत्र। २. भरतोक्ते 'विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति'—रिति रससूत्रे स्थायिशब्दो नास्ति। ध्वनिवादिनामुचित एव स्थाय्यभावोऽत्र, उल्लेख एव प्रत्युत शल्यभूतो भवेत्। तन्मते स्थायिनां रत्यादीनां लाभो विभावतावच्छेदकतया, रतिमत एव दुष्यन्तादेः सामाजिकान् प्रति विभावत्वात्। एवं च भावो रस इति प्रथमं रससूत्रम्, 'विभावानुभावव्यभिचारिसंयोगो रस' इति द्वितीयं, विभावानुभावव्यभिचारिस्थायिसंयोगो रस इति तृतीयं, चतुर्थं पुनर्विभावानुभावव्यभिचारिस्थायि सात्विकसंयोग इति, पञ्चमं 'भावसंयुक्तः स्थायी'—ति। स्थायी चाऽत्र न रत्यादिः, न च निर्वेदादिः, अपितु प्रत्यक्चैतन्यमेव रसिकस्य। द्रष्टव्यः अत्रास्माकं रसभोगः, काव्यालङ्कारकारिका च। हर्षादिष्वपि विभावानुभावव्यभिचारिसंयोगस्य विद्यमानत्वात्। तस्माद् रत्यादयः सर्व एवैते भावाः, शृङ्गार एवैको रस इति। तैश्च सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते।
तत्र केचनाहुः — 'नायं रसः शृङ्गाराख्यो रत्यादिभिरभिव्यज्यते, अपित्वालम्बन— विभावादुत्पन्नो रत्यादिरेवोद्देपनविभावादिभिः परं प्रकर्षमारोप्यमाणो रसीभवन् शृङ्गारादिसंज्ञां लभत' इति।
त एवं प्रष्टव्याः — 'किमेते रत्यादयः स्वेभ्यः आलम्बनेभ्यः उत्पद्यमानाः सर्वस्याप्युत्पद्यन्ते, उत कस्यचिदेवेति?'
यदि तावत् सर्वस्य, तदा सर्वं जगद् रसिकं स्यात्। न चैतदस्ति। यतः कश्चिद्रसिकः कश्चित्तु नीरसो दृश्यते। न च दृष्टविपरीतं शक्यमनुज्ञातुम्। अतो न सर्वस्य रत्यादयो जायन्ते।
अथ कस्यचित्, तत्र निमित्तमभिधानीयम्। तद् दृष्टमदृष्टं वा स्यात्।