दइअ-णह-दूमिआण वि वड्ढइ त्थणआण रोमञ्चो॥ ६॥
(दुःखं दददपि सुखं जनयति यो यस्य वल्लभो भवति।
दयितनखदूयमानयोरपि वर्धते स्तनयो रोमाञ्चः॥)
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः।
ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्ते(/रक्तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ७॥
ननु 'इदानीमेवोक्तं रतिप्रियो रणप्रियोऽमर्षप्रियः परिहासप्रिय इति रत्यादिप्रकर्षाणां प्रेमण्येव पर्यवसानात् रसमिह प्रेमाणमामनन्ती'ति तत् कथमुच्यते रत्यादिभूमनि पुनर्वितथा, रसोक्तिरिति? उच्यते, न रत्यादिभूमा रसः। किं तर्हि? शृङ्गारः।
शृङ्गारो हि नाम विशिष्टेष्टदृष्टचेष्टाभिव्यञ्जकानाम् आत्मगुणसम्पदामुत्कर्षबीजं बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराद्यतिशयहेतुरात्मनोऽहङ्कारगुणविशेषः सचेतसा रस्यमानो रस इत्युच्यते। यदस्तित्वे रसिकोऽन्यथात्वे नीरस इति॥ ८॥