भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 31 to 40 of 1530 verses
(भावाः — ५१)

तदाविर्भावहेतवश्च तत्प्रभवा एव भावाः। ते चैकोनपञ्चाशत्—

(१) रतिः, (२. प्रीतिः),(३) हर्षः, (४) रोमाञ्चः, (५) धृतिः, (६) गर्वः, (७) हासः, (८) मदः, (९. मोहः), (१०) उत्कण्ठा, (११) चिन्ता, (१२) स्मृतिः, (१३) मतिः, (१४) वितर्कः, (१५) उत्याहः, (१६) क्रोधः, (१७) अमर्षः, (१८) असूया, (१९) ईर्ष्या, (२०) उग्रता, (२१) जुगुप्सा, (२२) विस्मयः, (२३) निद्रा, (२४) सुप्‍तम्(/स्वप्‍नः), (२५) प्रबोधः, (२६) चपलता, (२७) आलस्यं, (२८) भयं, (२९) शङ्का, (३०) त्रासः, (३१) वेपथुः, (३२) व्रीडा, (३३) अवहित्थं, (३४) स्तम्भः, (३५) ग्लानिः, (३६) स्वेदः, (३७) व्याधिः, (३८) उन्मादः, (३९) श्रमः, (४०) शोकः, (४१) विषादः, (४२) वैवर्ण्यं, (४३) दैन्यं, (४४) स्वरभेदः, (४५) आवेगः, (४६) अश्रु, (४७. मोहः/स्‍नेहः), (४८) प्रलयः, (४९) जाड्यं, (५०) निर्वेदः, (५१) शम२ इति।

१. द्र. अत्रैव पृ. १ पादटिप्पणी ३। २. भरतनिर्दिष्टौ मरणापस्मारावत्र न भवतः, भवतश्‍च भरतानिर्दिष्टौ 'ईष्यो—शमौ'। संख्या तु समैव। एतेषां विभावादीनां रतेश्‍च विशद्य विवेचनं त्रयोदशप्रकाशे (द्र.पृ.७९४), शेषाणाञ्च चतुर्दशे प्रकाशे भावि।

तत्र केचिदाचक्षते रतिप्रभवः शृङ्गार इति।

वयं तु मन्यामहे रत्यादीनामयमेव प्रभव इति। शृङ्गारिणो हि रत्यादयो जायन्ते, नाशृङ्गरिणः। शृङ्गारी हि रमते, स्मयते, उत्सहते, स्‍निह्यतीति।

ते तु भाव्यमानत्वाद् भावा एव, न रसाः।

यावत्सम्भवं हि भावनया भाव्यमानो भाव एवोच्यते।

भावनापथमतीतस्तु रस इति।

मनोऽनुकूलेषु हि १सुखादिषु आत्मनः सुखानुभवाभिमानो रसः।