भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 21 to 30 of 2002 verses
१. अत्र द्रष्टव्यमस्मत्संपादिते नाट्यशास्त्रे १९.१२७, बड़ौदासंस्करणे १९.१३९। आभिरेव कारिका— भिर्महाकाव्यसर्गबन्धादिलक्षणमपि भरतोक्तं फलति।

(१. प्रथमा चतुष्षष्टिः)

(१. प्रबन्धशरीराणि—५)

प्रथमचतुष्षष्टौ—

इतिहासाश्रयम्, कथाश्रयम्, उत्पाद्येतिवृत्तम्, अनुत्पाद्येतिवृत्तम्, प्रतिसंस्कार्येतिवृत्तमिति पञ्च प्रबन्धशरीराणि,

१.(१.१) इतिहासाश्रयमित्यनेन वृत्तदेवादिचरितसंश्रिता। शंसितामाह, यथा कुमारसम्भव—हयग्रीववधादयो महादेवादीनामैतिहासिकं चरितमावेदयन्ति।

२.(१.२) कथाश्रयमित्यनेन बृहत्कथादिप्रतिपन्नप्रख्यातोदात्तनायकचरितविषयतामपि महाकाव्यादेः प्रबन्धस्याभिधत्ते, यथा बृहत्कथायां कथामुख—प्रतिपन्न— वत्सेश्वरचरितम् उदयनोदये।

३.(१.३) उत्पाद्येतिवृत्तमित्यनेन कविमनीषाप्रकल्पितचतुर्वर्गावबोधहेतुदिव्यादित्वं ब्रूते, यथा चन्द्रापीडपुण्डरीकादिचरितवर्णनं कादम्बर्याम्।

४.(१.४) अनुत्पाद्येतिवृत्तमित्यनेन यथावगतवर्तमानातीतमहाराजादिवृत्तवर्णन— विषयतामस्याचष्टे, यथा हर्षवर्धनराज्यवर्धनादीनां च वर्णनं हर्षचरिते।

५.(१.५) प्रतिसंस्कार्येतिवृत्तमित्यनेनेतिहासेषु यथास्थितवृत्तोपनिबन्धने न्यायप्रवृत्तेरप्य— फलत्वमनिष्टावाप्‍तिफलत्वं च दृश्यते, अन्यथा प्रवृत्तेरपि फलयोगोऽ— वधार्यते, तत्र तथा प्रतिसंस्कारो विधेयः, यथा न्यायप्रवृत्तेरेव फलयोगाभिनिर्वृतिः, विपरीतस्य निष्फलत्वानिष्टावाप्‍ती भवत इति व्युत्पादयति।