भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 11 to 20 of 2002 verses
सुश्‍लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम्।

मृदुशब्दाभिधानञ्च गुणालङ्कारभूषितम्॥ ४॥

सन्ध्यन्तरैकविंशत्या चतुष्षष्ट्यङ्गसंयुतम्।

लक्षणैश्‍च चतुष्षष्ट्या युक्तं कुर्वीत नाटकम्॥ ५॥

इति यदुक्तं १(नाशा. १९.२७) तत्र यथा काव्यादेः प्रबन्धस्य—

१. (१) शरीराणि पञ्च, (२) आरम्भविधयः पञ्च, (३) अर्थप्रकृतयः पञ्च, (४) अवस्थाः पञ्च, (५) संस्थाः पञ्च, (६) समवस्थाः पञ्च, (७) सन्धयः पञ्च, (८) वृत्तयः पञ्च, (९) चतुर्विंशतिः प्रवृत्तयः इत्येका चतुष्षष्टिः।

२. (१) दश लास्याङ्गनि, (२) त्रयोदश वीथ्यङ्गानि, (३) षोडश वृत्त्यङ्गानि, (४)एकविंशतिः सन्ध्यन्तराणि, (५)चत्वारि पताकास्थानानि इति द्वितीया चतुष्षष्टिः,

३. सन्ध्यङ्गानि चतुष्षष्टिः इति तृतीया,

४. काव्यलक्षणानि १चतुष्षष्टिरिति चतुर्थी।

इमाश्‍चतस्त्रोऽपि चतुष्षष्टयः क्रमेण क्रियन्ते। तत्र—

Showing 11 to 20 of 2002 verses