भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 11 to 20 of 481 verses
२. प्रीतेरभीष्टरूपरसगन्धस्पर्शशब्दपुत्रमित्रादय आलम्बनविभावाः। तदुपभोग— समागमसुखस्मरणादय उद्दीपनविभावाः। सर्वेन्द्रियाणां रोमाञ्चस्वेदस्वरभेदादयो व्यभिचारिणः॥

३. हर्षस्य मनोरथलाभेष्टजनसमागमदेवगुरुभर्तृराजप्रसादादय आलम्बनविभावाः। भोजनाच्छादनादय उद्दीपनविभावाः। नयनवदनप्रसादप्रियभाषणालिङ्गनललित— ताडनादयोऽनुभावाः। हासधृतिस्मृतिमतिगर्वौत्सुक्यावेगचपलतोत्साहजडतादयो व्यभिचारिणः॥

१. प्रकाश एष पदे पदे नष्टमातृकांश: राघवे। २. द्र. पृ. ६१४ एकादशप्रकाशारम्भः।

४. रोमाञ्चस्य स्पर्शभयशीतहर्षक्रोधरोगादयः आलम्बनविभावाः। प्रिया— लिङ्गनायादर्शनादयोऽभिषेकगुणकीर्तनोपकारस्मरणादय उद्दीपनविभावाः। प्रियागात्रस्पर्शनविलोकनादयोऽनुभावाः। हासत्रासविस्मयवितर्कावेगशङ्काऽबहित्थ— व्रीडास्तम्भस्वेदवेपथुस्वरभेदादयो व्यभिचारिणः॥

५. धृतेरष्टैश्‍वर्यकुलरूपयौवनविद्याबलादय आलम्बनविभावाः। श्रुतविज्ञान— शौचाचारदेवगुरुभक्त्यादयः उद्दीपनविभावाः। प्राप्‍तविषयोपभोगाप्राप्‍ताननुशोचना१— दयोऽनुभावः। तृप्‍तिहर्षादयो व्यभिचारिणः।

६. गर्वस्य२ ऐश्वर्यकुलरूपयौवनधनविद्याबलादय आलम्बनविभावाः। भर्तृसम्भावनोत्तमादरानुरूपनारीप्रार्थनागुणप्रशंसादय उद्दीपनविभावाः। . . . . . प्रश्‍नोत्तरादानाभाषणोपहसनवाक्‌पारुष्यधर्षणाधिक्षेपव्यतिक्रमादयोऽनुभावा:। हासोत्साहक्रोधचपलतामर्षादयो व्यभिचारिभावाः॥

७. हासस्य प्रतिज्ञासंप्रलापसौख्यधाष्टर्यकुहकपरचेष्टानुकरणपौरोभाग्यादय आलम्बनविभावाः। नायकसान्निध्यादय उद्दीपनविभावाः। भजनदर्शनसन्दर्शनास्य— रागपार्श्वग्रहणादयोऽनुभावाः। स्मितहसितविहसितोपहसितातिहसितापहसितादयोऽ— नुभावविशेषाः। प्रेमाश्रुचपलतादयो व्यभिचारिणः॥

८. मदस्य मद्योपभोगादय आलम्बनविभावाः। मनोरथावाप्‍तीष्टदर्शनगीतवाद्य— नृत्तवर्णनादय उद्दीपनविभावाः परुषाभिभाषणव्याकुलवचनमधुरमुखरागहृष्टतनुत्रास— सुकुमाराविष्ट/ललितस्खलितनयनघूर्णनादयोऽनुभावाः। अङ्गग्लान्यसूयाश्रममोहहर्ष— धृतिस्मृतिचपलताश्रुगर्वौत्सुक्यनिद्रामर्षस्तम्भवेपथुरोमाञ्चपुलकादयो व्यभिचारिणः॥

९. मोहस्य३ अवलोकनावस्थावधारणादय आलम्बनविभावाः। संस्कृ/स्तुतप्रदेश— दर्शनेष्टगुणाकर्णनर्तुमाल्यानुलेपनोपनतिप्रभृतय उद्दीपनविभावाः। गुणग्रहण— काकलीगीतादयोऽनुभावाः। निर्वेदग्लानिशङ्काऽऽवेगश्रमदैन्यचिन्तामतिस्मृति— चपलताव्रीडाऽवहित्थजडताविषादोन्मादादयो व्यभिचारिणः॥*

११. चिन्तायाः परद्रव्यापहारदारिद्रयेष्टजनवियोगादय आलम्बनविभावाः। प्रारब्धा— सिद्धिसमीहितानवाप्‍तिदेशभ्रमणादय उद्दीपनविभावाः। श्वसितसन्तापध्यानाधो— मुख्यतनुभावादयोऽनुभावाः। शोकभयविस्मयविषादनिद्रानिर्वेदग्लानिशङ्का— श्रमदैन्यमोहस्मृतिवैवर्ण्यादयो व्यभिचारिणः॥

Showing 11 to 20 of 481 verses