बीजमिव च बीजम् यथा बीजमुप्तमङ्कुरमूलप्रकाण्डपत्रस्कन्धशाखा— प्ररोहपल्लवपुष्पादिना प्रकारेण बहुधा विसर्पद् अन्ते फलाय कल्पते, तथा यो महावाक्यार्थो नायकोपनायकानुनायकप्रतिनायकसुहृत्सहायादिव्यापारभेदाद् बहुधा विसर्पन्नन्ते फलाय जायते स बीजमित्युच्यते। कथाशरीरव्यापिषु गुरुज्ञातिपुरोहितामात्यभृत्यदासपीठमर्दविटविदूषकशकारसिद्धतापसादिनायक— प्रतिनायकसहायेषु कर्तृभूतेषु पर्यस्तमान आरम्भो बीजमित्युच्यते।
स हि विष्कम्भप्रवेशकादिभिरसम्बद्धः सम्बद्धो वा कथाशरीराऽविच्छेद— हेतुतयावतिष्ठमानो बिन्दुरित्याख्यायते। उक्तं च—
प्रयोजनानां विच्छेदे यदविच्छेदकारणम्।
यावत्समाप्ति यद्वन्धः स बिन्दुरिति कीर्तितः॥ ८॥
बिन्दुरिव च बिन्दुः। यथा पयोबिन्दुश्च्योतम् पयोऽभिष्यन्दलक्षणायाः क्रियाया अविच्छेदहेतुः, यथा वा धृतबिन्दुरग्निज्वलनलक्षणायाः, एवं विच्छिन्नाविच्छिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरित्युच्यते।
कथाशरीरव्यापिनि पुनः सहायविशेषे साधकतमत्वेन करणभूते वर्तमान आरम्भः पताकेत्युच्यते। कथाशरीरव्यापिनो हि नायकस्य प्राधान्येन यदुपकारकं च फलेन च फलवत् सा पताका। उक्तं च—
यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।