भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 2002 verses
बीजमिव च बीजम् यथा बीजमुप्‍तमङ्कुरमूलप्रकाण्डपत्रस्कन्धशाखा— प्ररोहपल्लवपुष्पादिना प्रकारेण बहुधा विसर्पद् अन्ते फलाय कल्पते, तथा यो महावाक्यार्थो नायकोपनायकानुनायकप्रतिनायकसुहृत्सहायादिव्यापारभेदाद् बहुधा विसर्पन्नन्ते फलाय जायते स बीजमित्युच्यते। कथाशरीरव्यापिषु गुरुज्ञातिपुरोहितामात्यभृत्यदासपीठमर्दविटविदूषकशकारसिद्धतापसादिनायक— प्रतिनायकसहायेषु कर्तृभूतेषु पर्यस्तमान आरम्भो बीजमित्युच्यते।

१२.(३.२) (बिन्दु)

स हि विष्कम्भप्रवेशकादिभिरसम्बद्धः सम्बद्धो वा कथाशरीराऽविच्छेद— हेतुतयावतिष्ठमानो बिन्दुरित्याख्यायते। उक्तं च—

प्रयोजनानां विच्छेदे यदविच्छेदकारणम्।

यावत्समाप्‍ति यद्वन्धः स बिन्दुरिति कीर्तितः॥ ८॥

(नाशा. १९.२२)

बिन्दुरिव च बिन्दुः। यथा पयोबिन्दुश्‍च्योतम् पयोऽभिष्यन्दलक्षणायाः क्रियाया अविच्छेदहेतुः, यथा वा धृतबिन्दुरग्‍निज्वलनलक्षणायाः, एवं विच्छिन्नाविच्छिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरित्युच्यते।

१३.(३.३) (पताका)

कथाशरीरव्यापिनि पुनः सहायविशेषे साधकतमत्वेन करणभूते वर्तमान आरम्भः पताकेत्युच्यते। कथाशरीरव्यापिनो हि नायकस्य प्राधान्येन यदुपकारकं च फलेन च फलवत् सा पताका। उक्तं च—

यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।

Showing 51 to 60 of 2002 verses