तत्सम्बन्धाच्च फलवत् सा पताकेति कीर्तिता॥ ९॥
यथा हि पताका कस्यचिच्चिह्नरूपेण प्रकर्षशोभायै भवति, एवं तेषु यदुपनायकादेश्चरितं तत्प्रधानस्यात्मनश्च शोभाप्रकर्षाय जायमानं पताकेत्युच्यते।
कथाशरीरव्यापिनि पुनः सहायविशेष एव साधकत्वात् करणाभासभूते वर्तमान आरम्भः प्रकरीत्युच्यते। पताकैव ह्यफलवत्यनुबन्धविहीना च प्रकरी। यथोच्यते—
फलं प्रकल्पते यस्याः परार्थायैध केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्॥ १०॥
प्रकरीव प्रकरी; लघुर्हि प्रकरः प्रकरीत्युच्यते। स तु पुष्पादीनामेव स्यात्। यथा च पुष्पप्रकरः परार्थोऽपवरकादेः शयनस्थानस्य अन्यस्य वा शोभायै भवति एवं महाप्रबन्धस्य ऋतुवर्णनादिः, अन्यो वा कोऽपि तद्विधो व्यापारः सा प्रकरीति कथ्यते। १५.(३.५) (कार्यम्)
कथाशरीरव्यापिन्यां नायकसहायादिक्रियायामुपलभ्यमानं प्रधानसम्बन्धी प्रारम्भफलविशेषः कार्यमित्युच्यते। धर्मार्थकामानामन्यतमं हि पुरुषार्थ— कार्यमित्यामनन्ति। तदाह—