सम्भोगो विप्रलम्भश्च शृङ्गारोऽपि द्विधा मतः॥ २॥
समवाये य उद्भूतश्चिरं यश्चावतिष्ठते।
भावः स्थायीति स ज्ञेयो व्यभिचारी ततोऽन्यथा॥ ३॥
अभीष्टालिङ्ग(न—प्रीत—प्रहृष्ट—चिर—स)—गते।
सोऽस्मिन् सम्भोगशृङ्गारो विप्रलम्भो विपर्यये॥ ४॥
विभावो द्विविधश्चात्रालम्बनोद्दीपनात्मकः।
एकोऽनुभवसंस्कारे जनकोऽन्यस्तु स द्विधा/बोधकः॥ ५॥
(रजस्तमोभ्यां सत्त्वस्य)प्रभवेऽभिभवे द्विधा।
अन्तर्बहिश्च भावेऽत्र सहैव व्यभिचारिभिः॥ ६॥
स्मृतीच्छाद्वेषयत्नानामन्तस्सन्तान इष्यते।