जोशेर—राघवयोः ४९—भावक्रमः
जोशेरः राघवः जोशेरः राघव १. अमर्षः १६ १९ २६. मदः ८ ९ २. अश्रु २७ ४४ २७. मोहः ९ ४५ ३. असूया १७ २० १४ xx ४. आलस्यम् २५ ३० २८. रतिः १ १ ५. आवेगः २६ ४२ २९. रोमाञ्च ४ ४ ६. ईर्ष्या १८ २१ ३०. वितर्क १३ १५ ७. उग्रता XX २२ ३१. विषादः XX ३८ ८. उत्साहः XX १६ ३२. विस्मयः २० २४ ९. उन्मादः XX ३४ ३३. वैवर्ण्यम् XX ३९ १०. क्रोधः १५ १८ ३४. व्याधिः XX ३३ ११. गर्वः XX ६ ३५. शमः ३२ ४९ १२. ग्लानिः XX १० ३६. शोकः XX ३७ १३. चपलता २४ २८ ३७. श्रमः XX ३६ १४. चिन्ता १० १२ ३८. स्मृतिः १० १३ १५. जडता २९ ४७ ३९. स्वप्न २२ २६ १६. जुगुप्सा १९ २३ ४०. स्वरभेद XX ४१ १७. दैन्यम् XX ४० ४१. स्वेद ६ ३३ १८. धृतिः ५ ५ ४२. हर्षः ३ ३ १९. निद्रा २१ २५ ४३. हासः ७ ८ २०. निर्वेदः XX ४८ ४४. मोहः १४ XX २१. प्रबोधः २३ २७ ४५. अस्पष्ट XX ७ २२. प्रलयः २८ ४६ ४६. " XX ११ २३. प्रीतिः २ २ ४७. " XX १७ २४. भयम् XX ३१ ४८. " XX २९ २५. मतिः १२ १४ ४९. " XX ४३
शृङ्गारविभावहेतवः — शृङ्गारप्रभवा एव। ते रत्यादयो भावा एकोनपञ्चाशदिति यदुक्तं (पृ. ६१४) नाधिकाः, न न्यूनाः' इति; तत्र—
मनोऽनुकूलेष्वात्मनः सुखानुभवो रतिः।
सा चाष्टधा— नैसर्गिकी, सांसर्गिकी, आभियोगिकी, आध्यात्मिकी, औपमानिकी, वैषयिकी, साम्प्रयोगिकी, आभिमानिकी चेति।
जन्मान्तरवासना निसर्गः, तदुत्था नैसर्गिकी।
सा च जाता, अनुबन्धिनी प्रवृद्धा, संवृत्ता, अनुवर्तिनी चेति पञ्चधा। तत्रालम्बनविभावादुत्पन्नमात्रा जाता। यथा—
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी।