प्रायश्शुभं च विदधात्यशुभं च जन्तोस्सर्वङ्कषा भगवती भवितव्यतैव॥ १५॥
बलीयसा भावान्तरेणाभिभूतापि, संस्कारमात्रेणानुवर्तत इत्यनुवर्तिनी; यथा—
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समीक्ष्य ललितं वपुरात्मनश्च।
सख्योस्समक्षमिति चाक्षिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित्॥ १६॥
सा च पूर्ववदेव जातादिभेदात् पञ्चधा। तत्र—
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रतिसुरभयो दक्षिणेन प्रवृत्ताः।