आलिङ्ग्यन्ते गुणवति ! मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥ १७॥
अनुबन्धिनी यथा—(कुन्द. ४.२०)
द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते।
शय्या निशीथकलहे हरिणेक्षणायाः प्राप्तं मया विधिवशादिदमुत्तरीयम्॥ १८॥
आयाते दयिते मरुस्थलभुवां सञ्चिन्त्य दुर्लङ्घतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे।
दत्त्वा पीलुशमीकरीरकवलं चेलाञ्चलेनादरा— दुन्मृष्टं करभास्यकेसरसटाभाराग्रलग्नं रजः॥ १९॥
संपृक्ता यथा—(उराच. २.२८)
यस्यां ते दिवसास्तया सह तथा नीताः पुनः/यथा स्वे गृहे यत्संबन्धकथाभिरेव नियतं दीर्घाभिरस्थीयत।
एकस्संप्रति नाशितप्रियतमस्तामेव पापः कथं रामः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाष्य/व्य वा॥ २०॥