अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति॥
उत्पत्तेरनन्तरमुद्दीपनैरुद्दीप्यमाना सानुबन्धत्वादनुबन्धिनी; यथा—(कुसं. ५.६४)
यथाश्रुतं वेदविदां वर ! त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ १३॥
सत्यनुबन्धे संस्कारस्यानवरतप्रबोधात् स्मरणेच्छाद्वेषप्रयत्नजन्मभिर्मनोवाग्बुद्धि— शरीराङ्गै(रम्भै)रनुभावैस्सञ्चारिभिस्संसृज्यमाना प्राप्तप्रकर्षावस्था प्रवृद्धा; यथा—
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु वः।
ममात्र भावैकरसं मनस्स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ १४॥
अथ पृथगालम्बनाऽनुभवसंस्कारोद्दीपनस्मृत्यादिजन्मानुभवसञ्चारिसंभवे तुल्यबल— भावन्तरसंपर्कीणी संपृक्ता; यथा—
सन्तापसन्ततिमहाव्यसनाय तस्यामासक्तमेतदनपेक्षितहेतु चेतः।