व्यामृष्टपत्रलतिकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदस्य शेषाः॥ २१॥
पुरुषार्थेष्वापरिसमाप्तेः प्रयत्नविशेष उत्साहः।
मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीन् आश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।
आरम्भं जगृहे महेन्द्रसिखरादम्भोनिधेर्लङ्घने रंहस्वी रधुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ ३०॥
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता।
चतुर्दिगावर्जितसम्भृतां यो मृत्पात्रशेषामकरेद् विभूतिम्॥ ३१॥