यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति॥ २३॥
चक्रं वा मधुहा कृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा।
शूलं वाऽन्धकरक्तबिन्दुनिचितं गृह्णातु शूलायुधो धृष्टद्युम्नमहं निहन्मि समरे कश्चित् परित्रायताम्॥ २४॥
मैनाकः किमयं रुणाद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः? स वज्रपतनाद् भीतो महेन्द्रदापि।
तार्क्ष्यः? सोऽपि समं निजने विभुना जानाति मां रावणम् आः; ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥ २५॥
मदिराद्युपयोगान्मनस्सम्मोहानन्दसंभेदो मदः।