ग्रीष्मवर्षासन्धिर्यथा—(मामा. ९. १७)
उत्फुल्लार्जुनसर्जवासित—वहत्पौरस्त्यझञ्झामरु— त्प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः।
धारासिक्तवसुन्धरासुरभयः प्राप्तास्त एतेऽधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः॥ १७॥
वातप्रोत्क्षिप्तधूलीपरिमलनसमुद्धूलिताङ्गः समन्ताद् दन्तोद्वेल्लद्वलाकाऽऽवलिकुणपशिरोनद्धलीलाब्भ्रकेशी(शः)।
प्रेङ्खद्विद्युत्पताकारुचिरसुरधनुः खङ्गखट्वाङ्गधारी संप्राप्तः प्रोषितस्त्रीप्रतिभयजननः कालकापालिकोऽयम्॥ १८॥
वर्षोत्पत्तिर्यथा—(सूमु. १४)
किञ्चिन्मुद्रितपांसवः शिखिकुलैः सानन्दमालोकिता भग्नाऽऽवासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनप्रावृट्दरारम्भिणो विञ्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ १९॥