गुञ्जत्क्रौञ्च-निकुञ्जर-कुञ्जर-घटानिस्तीर्णकर्णज्वराः प्राक्प्रत्यग्धरणीध्र-कन्दर-जरत्पारीन्द्र-निद्राद्रुहः।
लङ्काङ्कत्रि—ककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये यस्या भ्रेमुरमन्ददुन्दुभिरवैराशारुधो घोषणाः॥ २१॥
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः॥ २२॥
लोलल्लाङ्गूलवल्लीवलयितवकुलानोकहस्कन्धगोलै— र्गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु।
षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालताल—स्फुटितपुटकिनीबन्धवो गन्धवाहाः॥ २३॥
योगरूढिपरम्परागर्भा यथा—(माघ. ३. ३३)
मध्येसमुद्रं ककुभः पिशङ्गीर्व्याकुर्वती काञ्चनभित्तिभासा।