वल्लकी च हृदयङ्गमस्वना मञ्जुवागपि च वामलोचना॥ १०॥
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां॰॥ ११॥
हृदयङ्गमप्रवृत्तिरनुकूलः; यथा—
किमिति कबरी यादृक्तादृग् ? दृशौ किमकज्जले ? न खलु लिखिताः पात्राङ्गुल्यः पत्रावल्यः किमद्य कपोलयोः।
अयमयमयं किञ्च क्लाम्यत्यसंस्मरणेन ते शशिमुखि ! सखीहस्तन्यस्तो विलासपरिच्छदः॥ १२॥
औपरोधिकप्रवृत्तिर्दक्षिणः; यथा—(रत्नाव. १.२५)
देवि ! त्वन्मुखपङ्कजेन शशिनश्छायातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम्।