सम्पर्के यथा—(उराच. ३.४२)
सस्वेदरोमाञ्चितकम्पिता सा जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव॥ ९॥
अनुबन्धे यथा—(जाह. १०.८६)
एकस्मिन् शयने मया मयसुतामालिङ्गय निद्रालसा— मुन्निद्रं शयितेन मच्चरणयोः संवाहनव्यापृता।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ ९०॥
अभीष्टप्राप्तेरधिकाऽस्पृहा धृतिः।
तज्जन्मनि यथा—(किराता. ६.१८)
अनुसानु पुष्यितलताविततिः फलितोरुभूरुहविविक्तवनः।