३. निषिद्धसेवानिवृत्तिः यथा—(शाकु. ५.२९)
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः॥ १२॥
४. स्तेयनिवृत्तिः यथा—(माघ. २.४०)
आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्।
कथाऽपि खलु पापानामलमश्रेयसे यतः॥ १३॥
सोऽस्ति यद् यच्च तन्मांसमुभयोः पश्र्यतान्तरम्।
एकास्य क्षणिका प्रीतिः प्राणैरन्यो वियुज्यते ॥ १४॥