अथ नियमरूपः। सोऽपि दशधा, वाङ्मनःकायक्रियादिभिः। तद्यथा नित्य— नैमित्तिकयोरत्यागः, स्वजातिधर्मा/स्वधर्मादविचलनं, सदृशैरेव संबन्धः, लोकागमविरुद्धैरसंसर्गः, न्यायतोऽर्थाधिगमः, गुर्वाज्ञानतिक्रमः, अप्रार्थनाभङ्गः, प्रतिज्ञानिर्वाहः, समरादपलायनं, गोब्राह्मणार्थे प्राणादिपरित्यागः, इति। तत्र—
१. नित्यापरित्यागो यथा—(कुसं. ८.४८)
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि! विनोदयिष्यति॥ १५॥
नैमित्तिकात्यागो यथा—(मवीच. १.१५)
अयं च यजमानेन यक्ष्यमाणस्य मे गृहात्।
प्रेषितस्तेन वात्सल्यादनुजन्मा कुशध्वजः ॥ १६॥
२. स्वजातिधर्मादविचलनं यथा—
तैरेव सह योद्धव्यं क्रीडाऽऽसीद् यैः सहैव नः।
अहो! निसर्गहिंस्त्रस्य पश्य क्षत्त्रस्य रौद्रता॥ १७॥