(२) वागारम्भाः— आलापः, प्रलापः, विलापः, अनुलापः, संलापः, अपलापः, सन्देशः, अतिदेशः, निर्देशः, उपदेशः, अपदेशः, व्यपदेश इति।
(३) बुद्धयारम्भाः— रीतिः, वृत्तिः, प्रवृत्तिरिति। तत्र च
१. (चतस्रो) रीतयः — पाञ्चाली, गौडीया, वैदर्भी, लाटीया चेति।
२. चतस्रो वृत्तयः — भारती, आरभटी, कैशिकी, सात्त्वती चेति।
३. चतस्रः प्रवृत्तयः —पौरस्त्या, उढ्र(औढ्र)मागधी,दाक्षिणात्या,आवन्त्या चेति।
(४) शरीरारम्भाः— लीला, विलासः, विच्छित्तिः, विभ्रमः, किलकिञ्चितम्, मोट्टायितम्, कुट्टमितम्, बिब्बोकः, ललितम्, विहृतं, क्रीडितम्, केलिरिति।
मनोऽभिलाषे हावः/भावः। स यथा—
अत्रान्तरे किमपि वाग्विभवातिरिक्त.........(द्र.पृ. ६२५)